|
|
 |
 |
|
|
७ द्रोणपर्व.jpg)
॥ श्रीः ॥
7.68. अध्यायः 068
Mahabharata - Drona Parva - Chapter Topics
नारदेन सृञ्जयम्प्रति भरतचरितकथनम्॥ 1 ॥

Mahabharata - Drona Parva - Chapter Text
नारद उवाच। 7-68-0x(4423)(47203)
दौष्यन्ति भरतं चापि मृतं सृञ्जय शुश्रुम।
कर्माण्यसुकराण्यन्यैः कृतवान्यः शिशुर्वने॥ 7-68-1(47204)
हिमावदातान्यः सिंहान्नखदंष्ट्रायुधान्बली।
निर्वीर्यांस्तरसा कृत्वा विचकर्ष बबन्ध च॥ 7-68-2(47205)
क्रूरांश्चोग्रतरान्व्याघ्रान्दमित्वा चाकरोद्वशे।
मनःशिला इव शिलाः संयुक्ता जतुराशिभिः॥ 7-68-3(47206)
त्रायलादींश्चातिबलवान्सुप्रतीकान्गजानपि।
दंष्ट्रासु गृह्य विमुखाञ्शुष्कास्यानकरोद्वशे॥ 7-68-4(47207)
महिषानप्यतिबलो बलिनो विचकर्ष ह।
सिंहानां च सुदृप्तानां शतान्याकर्षयद्बलात्॥ 7-68-5(47208)
बलिनः सृमरान्खङ्गान्नानासत्त्वानि चाप्युत।
कृच्छ्रप्राणान्वने बद्ध्वा दमयित्वाप्यवासृजत्॥ 7-68-6(47209)
तं सर्वदमनेत्याहुर्द्विजास्तेनास्य कर्मणा।
तं प्रत्यषेधज्जननी मा सत्वानि व्यनीनशः॥ 7-68-7(47210)
सोऽश्वमेधशतेनेजे यमुनामनु वीर्यवान्।
त्रिशतैश्च सरस्वत्यां गङ्गामनु चतुःशतैः॥ 7-68-8(47211)
सौऽश्वमेधसहस्रेण राजसूयशतेन च।
पुनरीजे महायज्ञैः समाप्तवरदक्षिणैः॥ 7-68-9(47212)
अग्निष्टोमातिरात्राणामुक्थ्यविश्वजितां च सः।
वाजपेयसहस्रामां सहस्रैश्च सुसंवृतैः॥ 7-68-10(47213)
इष्ट्वा शाकुन्तलो राजा तर्पयित्वा द्विजान्धनैः।
सहस्रं यत्र पद्मानां कण्वाय भरतो ददौ।
जाम्बूनदस्य शुद्धस्य कनकस्य महायशाः॥ 7-68-11(47214)
यस्य यूपाः सतव्यामाः परिणाहेन काञ्चनाः।
समागम्य द्विजैः सार्धे सेन्द्रैर्देवैः समुच्छ्रिताः॥ 7-68-12(47215)
अलङ्कृतान्राजमानान्सर्वरत्नैर्मनोहरैः।
हैरण्यान्द्विरदानश्वान्रथानुष्ट्रानजाविकान्॥ 7-68-13(47216)
दासी दासं धनं धान्यं गाः सवत्साः पयस्विनीः।
ग्रामान्गृहांश्च क्षेत्राणि विविधांश्च परिच्छदान्॥ 7-68-14(47217)
कोटीशतायुतांश्चैव ब्राह्मणेभ्यो ह्यमन्यत।
चक्रवर्ती ह्यदीनात्मा जितारिर्ह्यजितः परैः॥ 7-68-15(47218)
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया।
पुत्रात्पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः।
अयज्वानमदक्षिण्यमभि श्वैत्येत्युदाहरत्॥ ॥ 7-68-16(47219)
इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि षोडशराजकीये अष्टषष्टितमोऽध्यायः॥ 68 ॥
Mahabharata - Drona Parva - Chapter Footnotes
5-68-1 शुचिर्वने इति क.ङ.पाठः॥ 5-68-3 क्रुरानिति। यथा मनःशिलामयाः शिलाः जतुराशिभिर्लाभापुज्जैर्युक्तास्तत्सदृशान् रक्तबिन्दुयुक्तान् रक्तपीतवर्णान् व्याघ्रविशेषान् वशेऽकरोदित्यर्थः। शिलाः प्रभुत्वाज्जनकाशिनः इति क. पाठः॥ 5-68-12 व्यामो हस्तचतुष्टयम्। परिणाहेन दैर्घ्येण ॥ 5-68-68 अष्टषष्टितमोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|